लघुसिद्धान्तकौमुदी

।। श्री ।।
श्रीमद्वरदराजाचार्य-प्रणीता
लघुसिद्धान्तकौमुदी


नत्वा सरस्वती देवीं शुद्धां गुण्यां करोम्यहम् ।
पाणिनीय प्रवेशाय  लघुसिद्धान्तकौमुदीम् ।।

1

अथ सञ्ज्ञाप्रकरणम्

(अक्षर-समाम्नायः)

          अइउण्  1 । ऋलृक् 2 । एओङ् 3 । ऐऔच् 4 । हयवरट् 5 । लण्  6 । ञमङणनम् 7 । झभय् 8 । घढधष 9 । जबगडदश् 10 । खफछठथचटतव् 11 । कपय् 12 । शषसर् 13 । हल् 14।
        इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्याः इतः । हकाराधिष्वकार उच्चारणार्थः । लण्मध्ये त्वित्संज्ञकः ।
1. हलन्त्यम् । 1-3-3
      उपदेशेડन्त्यं ‘हल्’ इत् स्यात् । उपदेश आद्योच्चारणम् । सूत्रेष्वदृष्टं पदं सूत्रान्तराद् अनुवर्तनीयं, सर्वत्र ।

2. अदर्शनं लोपः । 1-1-60
     प्रसक्तस्यादर्शन लोपः स्यात् । णादयोડणाद्यर्थाः

3. तस्य लोपः । 1-3-9
     तस्येतो लोपः स्यात् । णादयोડणाद्यर्थाः ।

4. आदिरन्येन सहेता । 1-1-72
    अन्येतन इता सहित आदिः, मध्यगानां स्वस्य च संज्ञा स्यात् ।। यथा ‘अण्’ इति “अ - इ - उ ”  वर्णानां संज्ञा । एवम् अक् - अच् - अल् - हल् इत्यादयः ।।

5. उकालोડज् ह्रस्व-दीर्घ-प्लुतः । 1-2-27
     उश्च ऊश्च રૂ श्च वः । वां काल ईव कालो यस्य सोડच् क्रमाद् ह्रस्व-दीर्घ-प्लुतसंज्ञः स्यात् । स प्रत्येकम् - उदात्तादिभेदेन त्रिधा ।

6. उच्चैरुदात्तः । 1-2-29
7. नीचैरनुदात्तः । 1-2-30
8. समाहारः स्वरितः । 1-2-31
     स नवविधोડपि प्रत्येकमनुनासिकानुनासिकत्वाभ्यां द्विधा ।

9. मुखनासिकावचनोડनुनासिकः । 1-9-8
     मुखसहित -नासिकयोच्चार्यमाणो वर्णोડनुनासिकसंज्ञः स्यात् । तदित्थम् - अ-इ-उ-ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । लृ वर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादशः , तेषां ह्रस्वाभावात् ।।

10. तुल्यास्यप्रयत्नं सवर्णम् । 1-1-9
     ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् ।। (वा.) ऋलृवर्णयोः मिथः सावर्ण्यं वाच्यम् ।।

11. अणुदित्सवर्णस्य चाડप्रत्ययः ।
     प्रतीयते - विधीयते इति प्रत्ययः । अविधीयमानोડण् उदित् च सवर्णस्य संज्ञा स्यात् ।। अत्र (1-1-61) एव ‘अण्’ परेण । कु-चु-टु-तु-पु एते उदितः । तदेवम् ‘अ’ इत्यष्टादशानां संज्ञा । तथा इकार-उकारौ, ऋकारः त्रिंशतः । 

12. पर सन्निकर्षः संहिता । 1-4-101
    वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ।

13. हलोડन्तराः संयोगः । 1-1-7
     अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।

14. सुप्तिङन्तं पदम् । 1-4-14
     सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ।।
इति संञ्ज्ञाप्रकरणम्


2

।। अथ अच्-सन्धिप्रकरणम् ।। 

15. इको यणचि । 6-1-77
     इकः स्थाने यण् स्याद् अचि, संहितायां विषये । सुधी + उपास्य इति स्थिते ।

16. तस्मिन्निति निर्दिष्टे पूर्वस्य । 1-1-66
    सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितेस्य पूर्वस्य वोध्यम् ।

17.स्थानेन्तरतमः । 1-1-50
     प्रसङ्गे सति सदृशतम आदेशः स्यात् । सुध्य् + उपास्य इति जाते ।

18. अनचि च । 8-4-47
     अचः परस्य यरो द्वे वा स्तो, न तु अचि ।। इति धकारस्य द्वित्वम् ।

19. झलां जश् झशि । 8-4-53
      स्पष्टम् । इति पूर्वधकारस्य दकारः । 8-4-53

20. संयोगान्तस्य लोपः । 8-2-23
     संयोगान्तं यत्पदं तस्य लोपः स्यात् ।

21. अलोन्त्यस्य । 1-1-52 
     षष्ठीनिर्दिषोन्यस्यादेशः स्यात् । इति यलोपे प्राप्ते - ।। *यणः प्रतिषेधो वाच्यः * ।। सुद्ध्युपास्यः -     
     सुध्युपास्यः   ।। मद्ध्वरिः - मध्वरिः ।। धात्त्रंशः - धात्रंशः । लाकृतिः ।।

क्रमशः............

No comments:

Post a Comment